संदेश

दिसंबर, 2025 की पोस्ट दिखाई जा रही हैं

श्रीऋणमोचनमहागणपतिस्तोत्रं

चित्र
अस्य श्रीऋणमोचनमहागणपतिस्तोत्रस्य शुक्राचार्य ऋषिः, ‎अनुष्टुपच्छन्दः श्रीऋणमोचक महागणपतिर्देवता। ‎मम ऋणमोचनमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ‎रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः ‎क्षीरब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्। ‎दोर्भिः पाशाङ्कुशेष्ठाभयधर्मतुलं चन्द्रमौलिं त्रिनेत्रं ‎ध्यायेत् शान्त्यर्थमिशं गणपतिमामलं श्रीसमेतं शोभाम् ॥ ‎स्मरामि देव देवेशं वक्रतुण्डं महाबलम्। ‎षडाक्षरं कृपासिंधुं नमामि ऋणमुक्तये ॥ ॥ ‎एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम्। ‎एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2॥ ‎महागणपतिं देवं महासत्वं (महासेतुं) महाबलम्। ‎महाविघ्नहरं शंभोः नमामि ऋणमुक्तये ॥ 3॥ ‎(शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम्। ‎सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥4॥) ‎कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम्। ‎कृष्णसरपोपवीतं च नमामि ऋणमुक्तये ॥ 4॥ (कृष्णयज्ञोपवीतं) ‎रक्ताम्बरं रक्तवर्णं रक्तगंधानुलेपनम्। ‎रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5॥ (रक्तपुष्पयः पूज्यमानं) ‎पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम्। ‎पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6॥ (पीतपुष्पयः पूज्यम...