श्रीऋणमोचनमहागणपतिस्तोत्रं
अस्य श्रीऋणमोचनमहागणपतिस्तोत्रस्य शुक्राचार्य ऋषिः,
अनुष्टुपच्छन्दः श्रीऋणमोचक महागणपतिर्देवता।
मम ऋणमोचनमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः
क्षीरब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्।
दोर्भिः पाशाङ्कुशेष्ठाभयधर्मतुलं चन्द्रमौलिं त्रिनेत्रं
ध्यायेत् शान्त्यर्थमिशं गणपतिमामलं श्रीसमेतं शोभाम् ॥
स्मरामि देव देवेशं वक्रतुण्डं महाबलम्।
षडाक्षरं कृपासिंधुं नमामि ऋणमुक्तये ॥ ॥
एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम्।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2॥
महागणपतिं देवं महासत्वं (महासेतुं) महाबलम्।
महाविघ्नहरं शंभोः नमामि ऋणमुक्तये ॥ 3॥
(शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम्।
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥4॥)
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम्।
कृष्णसरपोपवीतं च नमामि ऋणमुक्तये ॥ 4॥ (कृष्णयज्ञोपवीतं)
रक्ताम्बरं रक्तवर्णं रक्तगंधानुलेपनम्।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5॥ (रक्तपुष्पयः पूज्यमानं)
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम्।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6॥ (पीतपुष्पयः पूज्यमानं)
धूम्राम्बरं (धूम्राक्षं) धूम्रवर्णं धूम्रगंधानुलेपनम्।
होमॐ प्रियं देवं नमामि ऋणमुक्तये॥ 7॥ (धूम्रौस्पैः पूज्यमानं)
(सर्वसर्वात्मकं सर्वं वर्णं सर्वगंधानुलेपनम्।
सर्वपुष्पय पूज्यमानं नमामि ऋणमुक्तये ॥)
भालनेत्रं भालचंद्रं पाषाङकुशधरं विभुम्।
चामरलङ्कृतं देवं नमामि ऋणमुक्तये ॥ 8॥
इदं त्वृणहरं स्तोत्रं संध्यायां यः पथेनरः। (त्रिसंध्यं यः पठेन्नरः)
षण्मासाभ्यन्तरेणैव ऋणमुक्तोति भविष्यति॥ 9॥
(षण्मासाभ्यन्तरे तस्य ऋणच्छेदो न संशयः।
सहस्रदशकं कृत्वा ऋणमुक्तो धनी भवेत् ॥)
ऋणहस्तोत्रम्

टिप्पणियाँ