श्रीऋणमोचनमहागणपतिस्तोत्रं
अस्य श्रीऋणमोचनमहागणपतिस्तोत्रस्य शुक्राचार्य ऋषिः, अनुष्टुपच्छन्दः श्रीऋणमोचक महागणपतिर्देवता। मम ऋणमोचनमहागणपतिप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः क्षीरब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम्। दोर्भिः पाशाङ्कुशेष्ठाभयधर्मतुलं चन्द्रमौलिं त्रिनेत्रं ध्यायेत् शान्त्यर्थमिशं गणपतिमामलं श्रीसमेतं शोभाम् ॥ स्मरामि देव देवेशं वक्रतुण्डं महाबलम्। षडाक्षरं कृपासिंधुं नमामि ऋणमुक्तये ॥ ॥ एकाक्षरं ह्येकदन्तमेकं ब्रह्म सनातनम्। एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2॥ महागणपतिं देवं महासत्वं (महासेतुं) महाबलम्। महाविघ्नहरं शंभोः नमामि ऋणमुक्तये ॥ 3॥ (शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम्। सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ॥4॥) कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम्। कृष्णसरपोपवीतं च नमामि ऋणमुक्तये ॥ 4॥ (कृष्णयज्ञोपवीतं) रक्ताम्बरं रक्तवर्णं रक्तगंधानुलेपनम्। रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5॥ (रक्तपुष्पयः पूज्यमानं) पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम्। पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6॥ (पीतपुष्पयः पूज्यम...